📚 गीताविवृतिः (राघवेन्द्रतीर्थः) - अध्यायः १
Page 1
Download 📥
________________ ॐ श्रीराघवेन्द्रयतिकृता श्रीभगवद्गीताविवृति श्री गुरुभ्यो नमः हरिः ॐ लक्ष्मीनारायणं नत्वा पूर्णबोधान्गुरूनपि । कुर्मः श्रीकृष्णगीतायाभाष्याद्युक्तार्थसंग्रहम् ॥ “स्त्रीशूद्रब्रह्मबन्धूनां त्रयी न श्रुतिगोचरा । इति भारतमाख्यानं कृपया मुनिना कृतम्” ॥ (भा.पु. १.४.२५) इति भागवतोक्त्या, वेदार्थज्ञानानधिकारिणां स्त्रीशूद्रादीनां धर्मज्ञानद्वारा मोक्षो भवेद्' इति भगवान्वेदव्यासः संभवसभाऽरण्यविराटोद्योगभीष्मद्रोणकर्ण- शल्यगदासौषुप्तिकशांत्यानुशासनिकाश्वमेधिकमौसलमहाप्रस्थानस्वर्गारोहण भविष्यत्पर्वभेदेनाष्टादशपर्वात्मकं भारतं कृत्वा तत्र भीष्मपर्वणि भारतपारिजातमधुभूतां सर्वभारतार्थासङ्ग्रहभूतां श्रीकृष्णार्जुनसंवादरूपां भगवद्गीतां निबबन् ‘तत्र पूर्वषट्के ज्ञानोपायोक्तिः । द्वितीयषट्के साधनोक्तिः । तृतीयषङ्के प्रागुक्तस्य प्रपञ्चनं क्रियत' इति विवेकः । तत्राद्याध्यायो द्वितीये कतिपयश्लोकाश्च कृष्णेनार्जुनबोधने प्रसक्तिसम्पादनाय प्रवृत्ताः । तत्रायमर्थः । धृतराष्ट्र उवाच “किम्?" इत्याह धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय १ ॥ १.१ ॥